|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.148. अध्यायः 148
Mahabharata - Drona Parva - Chapter Topics
कृष्णेनार्जुनं प्रति सैन्धवमूर्ध्नो धरण्यामनिपातनीयत्वे कारणाभिधानम्॥ 1 ॥ कृष्णाज्ञयाऽर्जुनेन स्यमन्तपञ्चके सन्ध्य मुपासमानस्य वृद्धक्षत्रस्योत्सङ्गे जयद्रथशिरसो निपातनम्॥ 2 ॥ उत्तिष्ठमानस्य तस्योत्सङ्गाच्छिरसि धरणौ पतिते वृद्ध क्षत्रमूर्ध्नो विदारणम्॥ 3 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-148-0x(4654)(51458)
एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे।
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः॥ 7-148-1(51459)
पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि।
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं *प्रति॥ 7-148-2(51460)
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः।
स च घोरेण तपसा दैन्धवं प्राप्तवान्सुतम्॥ 7-148-3(51461)
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना॥ 7-148-4(51462)
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः।
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः।
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः॥ 7-148-5(51463)
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि॥ 7-148-6(51464)
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः।
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः॥ 7-148-7(51465)
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम्।
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः॥ 7-148-8(51466)
तस्यापि शतधा मूर्धा फलिष्यति न संशयः।
`यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा'॥ 7-148-9(51467)
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः॥ 7-148-10(51468)
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्।
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन॥ 7-148-11(51469)
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे।
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा॥ 7-148-12(51470)
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत॥ 7-148-13(51471)
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले।
तवापि शतधा मूर्धा फलिष्यति न संशयः॥ 7-148-14(51472)
यथा चेदं न जानीयात्स राजा तपसि स्थितः।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः॥ 7-148-15(51473)
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन॥ 7-148-16(51474)
`यथैतत्सैन्धवशिरः शरैरेव धनञ्जय।
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम्'॥ 7-148-17(51475)
सञ्जय उवाच। 7-148-18x(4655)
ततः सुमहदाश्चर्यं तत्रापश्याम भारत।
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः॥ 7-148-18(51476)
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष॥ 7-148-19(51477)
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत्॥ 7-148-20(51478)
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम॥ 7-148-21(51479)
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्वरातलम्॥ 7-148-22(51480)
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम॥ 7-148-23(51481)
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्।
वासुदेवश्च बीभत्सुं प्रशशंस महारथम्॥ 7-148-24(51482)
`ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्।
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः॥ 7-148-25(51483)
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः।
कथं तस्य जयो न स्यादिति भूतानि मेनिरे॥ 7-148-26(51484)
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः।
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम्॥ 7-148-27(51485)
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम्।
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे॥ 7-148-28(51486)
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत।
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव॥ 7-148-29(51487)
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः।
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम्॥ 7-148-30(51488)
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः।
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः॥ 7-148-31(51489)
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि।
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना॥ 7-148-32(51490)
शिरसि च्याविते तस्य शरैराशीविषोपमैः।
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान्॥ 7-148-33(51491)
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम्।
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत'॥ 7-148-34(51492)
ततो विनिहते राजन्सिन्धुराजे किरीटिना।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ॥ 7-148-35(51493)
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम॥ 7-148-36(51494)
एवं स निहतो राजन्पार्थेनामिततेजसा।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः॥ 7-148-37(51495)
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये॥ 7-148-38(51496)
ततो जयद्रथे राजन्हते पार्थेन केशवः।
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः॥ 7-148-39(51497)
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत।
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक्॥ 7-148-40(51498)
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः।
सैन्धनं निहतं मेने फल्गुनेन महात्मना॥ 7-148-41(51499)
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत्।
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया॥ 7-148-42(51500)
ततः प्रववृते राजन्नस्तं गच्छति भास्करे।
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः॥ 7-148-43(51501)
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः॥ 7-148-44(51502)
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च।
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः॥ 7-148-45(51503)
अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान्।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम्॥ ॥ 7-148-46(51504)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिसयुद्धे अष्टचत्वारिंशदधिकशततमोऽध्यायः॥ 148 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-148-* 147 तमाध्याये आदित्यं प्रेक्षमाणस्तु इत्यादि 61 तमश्लोकमारभ्य 148 तमाध्याये श्रूयतां तद्यथावृत्तं कारणं सैन्धवं प्रतीति 2 तीयश्लोकपर्यन्तं विद्यमानानां 23 विंशतिश्लोकानां स्थाने ग.घ.ङ.झ.पुस्तकेषु अधोलिखिताः 45 श्लोका दृश्यन्ते। एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अब्रवीत्पाण्डवं राजंस्त्वरमाणो जनार्दनः॥ 1 ॥ एष मध्ये कृतः षड्भिः पार्थ वीरैर्महारथैः। जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः॥ 2 ॥ एताननिर्जित्य रणे षड्रथान्पुरुषर्षभ। न शक्यः शैन्धवो हन्तुं यतो निर्व्याजमर्जुन॥ 3 ॥ योगमत्र विधास्यामि सूर्यस्यावरणं प्रति। अस्तं गत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट्॥ 4 ॥ हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो। न गोप्स्यति दुराचारः स आत्मानं कथञ्चन॥ 5 ॥ तत्र च्छिद्रे प्रहर्तव्यं त्वयास्त कुरुसत्तम। व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः॥ 6 ॥ एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषत। ततोऽसृजत्तमः कृष्णः सूर्यस्यावरणं प्रति॥ 7 ॥ योगी योगेन संयुक्तो योगिनामीश्वरो हरिः॥ 8 ॥ सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः। त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप॥ 9 ॥ ते प्रहृष्टा रणे राजन्नापश्यन्सैनिका रविम्। उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः॥ 10 ॥ वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम्। पुनरेवाब्रवीत्कृष्णो धनञ्जयमिदं वचः॥ 11 ॥ पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम्। भयं हि विप्रमुच्यैतत्त्वत्तो भरतसत्तम॥ 12 ॥ अयं कालो महाबाहो वधायास्य दुरात्मनः। छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः॥ 13 ॥ इत्येवं केशवोनोक्तः पाण्डुपुत्रः प्रतापवान्। न्यवधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः॥ 14 ॥ कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः। शल्यं दुर्योधनं चैव षड्भिः षड्भिरताडयत्॥ 15 ॥ वृषसेनं तथाष्टाभिः षष्ट्या सैन्धवमेव च। तथैव स महाबाहुस्त्वदीयान्पाण्डुनन्दनः। गाढं विद्ध्वा शरै राजञ्जयद्रथमुपाद्रवत्॥ 16 ॥ तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम्। जयद्रथस्य गोप्तारः संशयं परमं गताः॥ 17 ततः सर्वे महाराज तव योधा जयैषिणः। सिषिचुः शरधाराभिः पाकशासनिमाहवे॥ 18 सञ्छाद्यमानः कौन्तेयः शरजालैरनेकशः। अक्रुध्यत्स महाबाहुरजितः कुरुनन्दनः॥ 19 ॥ ततः शरमयं जालं तुमुलं पाकशासनिः। व्यसृजत्पुरुषव्याघ्रस्तव सैन्यजिघांसया॥ 20 ॥ ते हन्यमाना वीरणे योधा राजन्रणे तव। प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम्॥ 21 ॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम्। तादृङ्ग भावी भूतो वा यच्चकार महायशाः॥ 22 ॥ द्विपान्द्विपगतांश्चैव हयान्हयगतानपि। तथा स रथिनश्चैव न्यहन्रुद्रः पशूनिव॥ 23 ॥ न तत्र समरे कश्चिन्मया दृष्टो नराधिप। गजो वाजी नरो वापि यो न पार्थशराहतः॥ 24 ॥ रजसा तमसा चैव योधाः सञ्छन्नचक्षुषः। कश्मलं प्राविशन्घोरं नान्वजानन्परस्परम्॥ 25 ॥ ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः। वभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत॥ 26 ॥ तस्मिंन्महाभीषणके प्रजानामिव सङ्क्षये। रणे महति दुष्पारे वर्तमाने सुदारुणे॥ 27 ॥ शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च। अशाम्यत्तद्रजो भौममसृक्सिक्ते धरातले॥ 28 ॥ आनाभि निरमज्जंश्च रथचक्राणि शोणिते। मत्ता वेगवता राजंस्तावकानां रणाङ्गणे॥ 29 ॥ हस्तिनश्च हतारोहा दारिताङ्गाः सहस्रशः। स्वान्यनीकानि मृद्गन्त आर्तनादाः प्रदुद्रुवुः॥ 30 ॥ हयाश्च पतितारोहाः पत्तयश्च नराधिप। प्रदुद्रुवुर्भयाद्राजन्धनञ्जयशराहताः॥ 31 ॥ मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षतैः। प्रापलायन्त सन्त्रस्तास्त्यक्त्वा रणशिरो जनाः॥ 32 ॥ ऊरुग्राहगृहीताश्च केचित्तत्राभवन्भूवि। हतानां चापरे मध्ये द्विरदानां निलिल्यिरे॥ 33 ॥ एवं तव बलं राजन्द्रावयित्वा धनञ्जयः। न्यवधीत्सायकैर्घोरैः सिन्धुराजस्य रक्षिणः॥ 34 ॥ द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम्। छादयामास तीव्रेण शरजालेन पाण्डवः॥ 35 ॥ न गृह्णन्नक्षिपरन्राजन्मुञ्चन्नापि च सन्दधत्। अदृश्यतार्जुनः सङ्ख्ये शीघ्रास्त्रत्वात्कथञ्चन॥ 36 ॥ धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा। सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः॥ 37 ॥ कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह। शल्यस्य सूतं भल्लेन रथनीडादपातयत्॥ 38 ॥ गाढविद्धावुभौ कृत्वा शरैः स्वस्रीयमातुलौ। अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे॥ 39 ॥ एवं तान्व्याकुलीकृत्य त्वदीयानां महारथान्। उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम्॥ 40 ॥ इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम्। सर्वभारसहं शश्वद्ग्रन्धमाल्यार्चितं महत्॥ 41 ॥ वज्रेणास्त्रेण संयोज्य विधिवत्कुरुनन्दनः। समादधन्महाबाहुर्गाण्डीवे क्षिप्रमर्जुनः॥ 42 ॥ तस्मिन्सन्धीयमाने तु शरे ज्वलनतेजसि। अन्तरिक्षे महानादो भूतानामभवन्नृप॥ 43 ॥ अब्रवीच्च पुनस्तत्र त्वरमाणो जनार्दनः। धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः॥ 44 ॥ अस्तं महीधरश्रेष्ठं यियासति दिवाकरः। शृणुष्वैतच्च वाक्यं मे जयद्रथवधं पर्ति॥ 45 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|